गुरुराजाष्टाक्षरं स्यात् महापातकनाशनम् |
एकैकमक्षरं चात्र सर्वकाम्यार्थसिद्धिदम् || १ ||
रकारोच्चारमात्रेण रोगहानिर्न संशयः |
घकारेणात्र बलं पुष्टिः आयुः तेजश्च वर्धते || २ ||
वकारेणात्र लभते वाञ्छितार्थान्न संशयः |
द्रकारेणाघराशिस्तु द्राव्यते द्रुतमेव हि || ३ ||
यकारेण यमाद्भादो वार्यते नात्र संशयः |
नकारेण नरेन्द्राणां पदमाप्नोति मानवः || ४ ||
मकारेणैव माहेन्द्रमैश्वर्यं याति मानवः |
गुरोर्नाम्नश्च माहात्म्यं अपूर्वं परमाद्भुतम् || ५ ||
तन्नामस्मरणादेव सर्वाभीष्टं प्रसिध्यति |
तस्मान्नित्यं पठेद्भक्त्या गुरुपादरतस्सदा || ६ ||
श्री राघवेन्द्राय नमः इत्यष्टाक्षरमन्त्रतः |
सर्वान्कामानवाप्नोति नात्र कार्या विचारणा || ७ ||
अष्टोत्तरशतावृत्तिं स्तोत्रस्यास्य करोति यः |
तस्य सर्वार्थसिद्धिस्स्यात् गुरुराजप्रसादतः || ८ ||
एतदष्टाक्षरस्यात्र माहात्म्यं वेत्ति कः पुमान् |
पठनादेव सर्वार्थसिद्धिर्भवति नान्यथा || ९ ||
स्वामिना राघवेन्द्राख्यगुरुपादाब्जसेविना |
कृतमष्टाक्षरस्तोत्रं गुरुप्रीतिकरं शुभम् || १० ||
|| इति श्रीगुरुजगन्नाथदासार्यविरचित श्रीराघवेन्द्राष्टाक्षरस्तोत्रं संपूर्णम् ||
|| श्री कृष्णार्पणमस्तु ||