|| श्रीमत् हनुमद्भीममध्वान्तर्गतरामकृष्णवेदव्यासात्मकश्रीलक्ष्मीहयग्रीवाय नमः ||
अर्चितः संसृतो ध्यातः कीर्तितः कथितः श्रुतः |
यो ददात्यमृतत्वं हि स मां रक्षतु केशवः || १ ||
तापत्रयेण सन्तप्तं यदेतदखिलं जगत् |
वक्ष्यामि शान्तये तस्य कृष्णामृतमहार्णवम् || २ ||
ते नराः पशवो लोके किं तेषां जीविते फलम् |
यैर्न लब्धा हरेर्दीक्षा नार्चितो वा जनार्दनः || ३ ||
good